|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.141. अध्यायः 141
Mahabharata - Udyoga Parva - Chapter Topics
कर्णेन कृष्णंप्रति स्वस्य पाण्डवपक्षप्रवेशे सयुक्तिकं प्रतिबन्धकनिरूपणपूर्वकं स्वरहस्यगोपनप्रार्थनादि ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
कर्ण उवाच। 5-141-0x(3802)(36606)
असंशयं सौहृदान्मे प्रणयाच्चाथ केशव।
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥ 5-141-1(36607)
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।
निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥ 5-141-2(36608)
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥ 5-141-3(36609)
सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोस्मि धर्मतः ।
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥ 5-141-4(36610)
सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान्।
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥ 5-141-5(36611)
मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् ।
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥ 5-141-6(36612)
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥ 5-141-7(36613)
तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।
पितरं चाभिजानामि तमहं सौहृदात्सदा ॥ 5-141-8(36614)
स हि मे जातकर्मादि कारयामास माधव ।
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥ 5-141-9(36615)
नाम वै वसुषेणेति कारयामास वै द्विजैः ।
भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात् ॥ 5-141-10(36616)
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।
तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥ 5-141-11(36617)
न पृथिव्या सकलया न सुवर्णस्य राशिभिः।
हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे ॥ 5-141-12(36618)
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् ।
मया त्रयोदशसमा भुक्तं राज्यमकण्टकम् ॥ 5-141-13(36619)
इष्टं च बहुभिर्यज्ञैः सहसूतैर्मयाऽसकृत्।
आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः ॥ 5-141-14(36620)
मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः ।
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥ 5-141-15(36621)
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।
वृतवान्परमं कृष्ण प्रतीपं सव्यसाचिनः ॥ 5-141-16(36622)
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन ।
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ 5-141-17(36623)
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।
अकीर्तिः स्याद्धृपीकेश मम पार्थस्य चोभयोः ॥ 5-141-18(36624)
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥ 5-141-19(36625)
मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन ।
एतदत्र हितं मन्ये सर्वं यादवनन्दन ॥ 5-141-20(36626)
यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः ।
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥ 5-141-21(36627)
प्राप्य चापि महद्राज्यं तदहं मधुसूदन ।
स्फीतं दुर्योधनायैव संप्रदद्यामरिन्दम ॥ 5-141-22(36628)
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।
नेता यस्य हृषीकेसो योद्धा यस्य धनञ्जयः ॥ 5-141-23(36629)
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥ 5-141-24(36630)
धृष्टद्युन्मश्च पाञ्चल्यः सात्यकिश्च महारथः ।
उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः ॥ 5-141-25(36631)
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ।
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा।
इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः ॥ 5-141-26(36632)
मातुलो भीमसेनस्य श्येनजिच्च महारथः ।
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥ 5-141-27(36633)
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः ।
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥ 5-141-28(36634)
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति।
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ 5-141-29(36635)
आध्वर्यवं च ते कृष्ण ऋतावस्मिन्भविष्यति।
होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः ॥ 5-141-30(36636)
गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति।
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥ 5-141-31(36637)
अनुयातश्च पितरमधिको वा पराक्रमे ।
गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति ॥ 5-141-32(36638)
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः ।
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥ 5-141-33(36639)
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥ 5-141-34(36640)
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन।
उत्कृष्टः सिंहनादश्च सुब्रह्मण्यो भविष्यति ॥ 5-141-35(36641)
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।
शामित्रं तौ महावीर्यौ सम्यक् तत्र भविष्यतः।
`तौ मैत्रावरुणाग्नीध्रौ महावीर्यौ भविष्यतः॥' 5-141-36(36642)
कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः।
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥ 5-141-37(36643)
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः ।
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥ 5-141-38(36644)
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च।
हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति ॥ 5-141-39(36645)
इध्माः परिधयश्चैव शक्तयो विमला गदाः।
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ 5-141-40(36646)
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥ 5-141-41(36647)
प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति।
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥ 5-141-42(36648)
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः ।
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥ 5-141-43(36649)
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् ।
वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात् ॥ 5-141-44(36650)
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्।
प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा ॥ 5-141-45(36651)
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥ 5-141-46(36652)
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।
आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति ॥ 5-141-47(36653)
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः ।
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥ 5-141-48(36654)
दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥ 5-141-49(36655)
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः ।
हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव ॥ 5-141-50(36656)
रुदन्त्यः सहगान्धार्या श्वगृध्रकुरराकुले ।
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥ 5-141-51(36657)
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।
वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥ 5-141-52(36658)
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् ।
करुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥ 5-141-53(36659)
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥ 5-141-54(36660)
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन ।
तावत्कीर्तिभवः शब्दः शाश्वतोयं भविष्यति ॥ 5-141-55(36661)
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् ।
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम् ॥ 5-141-56(36662)
समुपानय कौन्तेयं युद्धाय मम केशव ।
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥ ॥ 5-141-57(36663)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-141-4 यथा न कुलजस्तथेति कo पाठः ॥ 5-141-14 आवाहाः कुलधर्माः ॥ 5-141-15 मां च । मित्रमिति शेषः ॥ 5-141-19 ब्रयास्त्वं पाण्डवान्प्रतीति शेषः ॥ 5-141-20 नियमं गोपनम् ॥ 5-141-28 समुदानयः समुदायीकरणम् ॥ 5-141-41 परिस्तोमाः सोमचमसादयः ॥ 5-141-42 प्रतिप्रस्थाताऽध्वर्योस्तव द्वितीयः तस्य कर्म प्रतिप्रास्थानिकम् ॥ 5-141-43 अतिरात्रे ऋतौ। श्लेषेण निशीथेच। घटोत्कचः रात्रिचरत्वात् शामित्रं करिष्यति ॥ 5-141-46 पुनश्चितिर्यज्ञानन्तरं चयनारम्भो यज्ञविशेषेषूक्तः ॥ 5-141-47 आनर्दं महानादं नर्दतः। णमुलन्तं पूर्वपदम्। सूयं सोमाभिषवः। सुत्या भविष्यतीति कo पाठः ॥ 5-141-48 यज्ञावसानं यज्ञस्य मध्येमध्ये विरम्यावस्थानम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|